अवनितलं पुनरवतीर्णा स्यात्....... संस्कृत गीत
अवनितलं पुनरवतीर्णा स्यात्...
अवनितलं पुनरवतीर्णा स्यात्
संस्कृतङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा:॥
निपतु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविष्टु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्र सहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकार: ॥
ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्न कि न लभेत
एवं सन्ति विचार:॥
या माता संस्कृतिमूला
यस्या विशालतास्सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङमाला
सुरवाणीं जनवाणीं कर्तुं
यतामहेकृताशूरा:॥
Comments
Post a Comment