अवनितलं पुनरवतीर्णा स्यात्....... संस्कृत गीत
अवनितलं पुनरवतीर्णा स्यात्... अवनितलं पुनरवतीर्णा स्यात् संस्कृतङ्गाधारा धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा:॥ निपतु पण्डितहरशिरसि प्रवहतु नित्यमिदं वचसि प्रविष्टु वैयाकरणमुखं पुनरपि वहताज्जनमनसि पुत्र सहस्रं समुद्धृतं स्यात् यान्तु च जन्मविकार: ॥ ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम सर्वेषामपि तप्तिहितार्थं स्वक्लेशं न हि गणयेम कृते प्रयत्न कि न लभेत एवं सन्ति विचार:॥ या माता संस्कृतिमूला यस्या विशालतास्सुविशाला वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङमाला सुरवाणीं जनवाणीं कर्तुं यतामहेकृताशूरा:॥